(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.329. अध्यायः 329
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति व्यासकृतशुकानुशासनानुवादः॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

युधिष्ठिर उवाच। 12-329-0x(6534)(78747)
कथं निर्वेदमापन्नः शुको वैयासकिः पुरा।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे॥ 12-329-1(78748)
भीष्म उवाच। 12-329-2x(6535)
प्राकृतेनैव वृत्तेन चरन्तमकुतोभयम्।
अध्याप्य कृत्स्नं स्वाध्यायमन्वशाद्वै पिता सुतम्॥ 12-329-2(78749)
व्यास उवाच। 12-329-3x(6536)
धर्मं पुत्र निपेवस्व सुतीक्ष्णौ च हिमातपौ।
क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः॥ 12-329-3(78750)
सत्यमार्जवमक्रोधमनसूयां दमं तपः।
अहिंसां चानृशंस्यं च विधिवत्परिपालय॥ 12-329-4(78751)
सत्ये तिष्ठ रतो धर्मे हित्वा सर्वमनार्जवम्।
देवतातिथिशेषेण यात्रां प्राणस्य संलिह॥ 12-329-5(78752)
फेनमात्रोपमे देहे जीवे शकुनिवत्स्थिते।
अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक॥ 12-329-6(78753)
अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु।
अन्तरं लिप्यमानेषु बालस्त्वं नावबुध्यसे॥ 12-329-7(78754)
अहःसु गण्यमानेषु क्षीयमाणे तथाऽऽयुषि।
जीविते लिख्यमाने च किमुत्थाय न धावसि॥ 12-329-8(78755)
ऐहलौकिकनीहन्ते मांसशोणितवर्धनम्।
पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः॥ 12-329-9(78756)
धर्माय येऽभ्यसूयन्ति बुद्धिमोहान्विता नराः।
अपथा गच्छतां तेषामनुयाताऽपि पीड्यते॥ 12-329-10(78757)
ये तु तुष्टाः श्रुतिपरा महात्मानो महाबलाः।
धर्म्यं पन्थानमारूढास्तानुपास्स्व च पृच्छ च॥ 12-329-11(78758)
उपधार्य मतं तेषां बुधानां धर्मदर्शिनाम्।
नियच्छ परया बुद्ध्या चित्तमुत्पथगामि वै॥ 12-329-12(78759)
आद्यकालिकया बुद्ध्या दूरेश्च इति निर्भयाः।
सर्वभक्ष्या न पश्यन्ति कर्मभूमिमचेतसः॥ 12-329-13(78760)
धर्मं निःश्रेणिमास्थाय किंचित्किंचित्समारुह।
कोशकारवदात्मानं वेष्टयन्नावबुध्यसे॥ 12-329-14(78761)
नास्तिकं भिन्नमर्यादं कूलपातमिव स्थितम्।
वामतः कुरु विस्रब्धो नरं वेणुमिवोद्धृतम्॥ 12-329-15(78762)
कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम्।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर॥ 12-329-16(78763)
मृत्युनाऽभ्याहते लोके जरया परिपीडिते।
अमोघासु पतन्तीषु धर्मयानेन संतर॥ 12-329-17(78764)
तिष्ठन्तं च शयानं च मृत्युरन्वेषते यदा।
निर्वृत्तिं लभते कस्मादकस्मान्मृत्युनाऽशितः॥ 12-329-18(78765)
संचिन्वानकमेवैनं कामानामवितृप्तकम्।
वृकीवोरणमासाद्य मृत्युरादायं गच्छति॥ 12-329-19(78766)
क्रमशः संचितशिखो धर्मबुद्धिमयो महान्।
अन्धकारे प्रवेष्टव्ये दीपो यत्नेन धार्यताम्॥ 12-329-20(78767)
संपतन्देहजालानि कदाचिदिह मानुषे।
ब्राह्मण्यं लभते जन्तुस्तत्पुत्र परिपालय॥ 12-329-21(78768)
ब्राह्मणस्य तु देहोऽयं न कामार्थाय जायते।
इह क्लेशाय तपसे प्रेत्य त्वनुपमं सुखम्॥ 12-329-22(78769)
ब्राह्मण्यं बहुभिरवाप्यते तपोभि
स्तल्लब्ध्वा न रतिपरेण हेलितव्यम्।
स्वाध्याये तपसि दमे च नित्ययुक्तः
मोक्षार्थी कुशलपरः सदा यतस्व॥ 12-329-23(78770)
अव्यक्तप्रकृतिरयं कलाशरीरः
सूक्ष्मात्मा क्षणत्रुटिका निमेषरोमा।
यानेतत्समबलशुक्लकृष्णनेत्रो
मासाङ्गो द्रवति वयोहयो नराणाम्॥ 12-329-24(78771)
तं दृष्ट्वा प्रसृतमजस्रमुग्रवेगं
गच्छन्तं सततमिहान्ववेक्षमाणम्।
यक्षुस्ते यदि न परप्रणेतृनेयं
धर्मे ते रमतु मनः परं निशाम्य॥ 12-329-25(78772)
येऽमी तु प्रचलितधर्मकामवृत्ताः
क्रोशन्तः सततमनिष्टसंप्रयोगात्।
क्लिश्यन्तः परिगतवेदनाशरीरा
बह्वीभिः सुभृशमधर्मवागुराभिः॥ 12-329-26(78773)
राजा सदा धर्मपरः शुभाशुभस्य गोप्ता
समीक्ष्य सुकृतिनां दधाति लोकान्।
बहुविधमपि चरति प्रविशति
सुखमनुपगतं निरवद्यम्॥ 12-329-27(78774)
श्वानो भीषणकाया अयोमुखानि वयांसि
बलगृध्रकुररपक्षिणां च संघातम्।
नरकदने रुधिरपा गुरुवचन
नुदमुपरतं विशन्त्यसन्तः॥ 12-329-28(78775)
मर्यादा नियताः स्वयम्भुवा य इहेमाः
प्रभिनत्ति दश गुणा मनोऽनुगत्वात्।
निवसति भृशमसुखं पितृविषय
विपिनमवगाह्य स पापः॥ 12-329-29(78776)
यो लुब्ध सुभृशं प्रियानृतश्च मनुष्यः
सततनिकृतिवञ्चनाभिरतिः स्यात्।
उपनिधिभिरसुखकृत्स परमनिरयगो
भृशमसुखमनुभवति दुष्कृतकर्मा॥ 12-329-30(78777)
उष्णां वैतरणीं महानदीमव
गाढोऽसिपत्रवनभिन्नगात्रः।
परशुवनशयोनिपतितो
वसति च महानिरये भृशार्तः॥ 12-329-31(78778)
महापादनि कत्थसे न चाप्यवेक्षसे परम्।
चिरस्य मृत्युकारिकामनागतां न बुध्यसे॥ 12-329-32(78779)
प्रयस्यतां किमास्यते समुत्थितं महद्भयम्।
अतिप्रमार्थि दारुणं सुखस्य संविधीयताम्॥ 12-329-33(78780)
पुरा मृतः प्रणीयसे यमस्य राजशासनात्।
त्वमन्तकाय दारुणैः प्रयत्नमार्जवे कुरु॥ 12-329-34(78781)
पुरा समूलबान्धवं प्रभुर्हरत्यदुःखवित्।
कियत्तवेह जीवितं यमे न चास्ति वारकः॥ 12-329-35(78782)
पुरा विवाति मारुतो यमस्य यः पुरःसरः।
पुरैक एव नीयसे कुरुष्व सांपरायिकम्॥ 12-329-36(78783)
पुरा स एक एव ते प्रवाति मारुतोऽन्तकः।
पुरा च विभ्रमन्ति ते दिशो महाभयागमे॥ 12-329-37(78784)
श्रुतिश्च सन्निरुध्यते पुरा तवेह पुत्रक।
समाकुलस्य गच्छतः समाधिमुत्तमं कुरु॥ 12-329-38(78785)
शुभाशुभे पुरा कृते प्रमादकर्मविप्लुते।
स्मरन्पुराऽनुतप्यसे निधत्स्व केवलं निधिम्॥ 12-329-39(78786)
पुरा जरा कलेवरं विजर्झरीकरोति ते।
बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम्॥ 12-329-40(78787)
पुरा शरीरमन्तको भिनत्ति रोगसायकैः।
प्रसह्य जीवितक्षये तपो महत्समारभ॥ 12-329-41(78788)
पुरा वृका भयंकरा मनुष्यदेहगोचराः।
अभिद्रवन्ति सर्वतो यतस्व पुण्यशीलने॥ 12-329-42(78789)
पुरान्धकारमेककोऽनुपश्यसि त्वरस्व वै।
पुरा हिरण्मयान्नगान्निरीक्षसेऽद्रिमूर्धनि॥ 12-329-43(78790)
पुरा कुसङ्गतानि ते सुहृन्मुखाश्च शत्रवः।
विचालयन्ति दर्शनाद्धटस्व पुत्र यत्परम्॥ 12-329-44(78791)
धनस्य यस्य राजतो भयं न चास्ति चोरतः।
मृतं च यन्न मुञ्चति समार्जयस्व तद्धनम्॥ 12-329-45(78792)
न तत्र संविभज्यते स्वकर्मभिः परस्परम्।
यदेव यस्य यौतकं तदेव तत्र सोऽश्नृते॥ 12-329-46(78793)
परत्र तेन जीव्यते तदेव पुत्र जीयताम्।
धनं यदक्षरं ध्रुवं समार्जयस्व तत्स्वयम्॥ 12-329-47(78794)
न यावदेव पच्यते महाजनस्य यावकम्।
अपक्व एव यावके पुरा प्रलीयते त्वरम्॥ 12-329-48(78795)
न मातृपुत्रबान्धवा न संस्तुतः प्रियो जनः।
अनुव्रजन्ति संकटे व्रजन्तमेकपातिनम्॥ 12-329-49(78796)
यदेव कर्म केवलं पुराकृतं शुभाशुभम्।
तदेव पुत्र यौतकं भवत्यमुत्र गच्छतः॥ 12-329-50(78797)
हिरण्यरत्नसंचयाः शुभाशुभेन संचिताः।
न तस्य देहसंक्षये भवन्ति कार्यसाधकाः॥ 12-329-51(78798)
न पुत्र शान्तिरस्ति ते कृताकृतस्य कर्मणः।
न साक्षिकोऽऽत्मना समो नृणामिहास्ति कश्चन॥ 12-329-52(78799)
मनुष्यदेहशून्यकं भवत्यमुत्र गच्छतः।
प्रविश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वशः॥ 12-329-53(78800)
इहाग्निसूर्यवायवः शरीरमाश्रितास्त्रयः।
त एव तस्य साक्षिणो भवन्ति धर्मदर्शिनः॥ 12-329-54(78801)
अहनिंशेषु सर्वतः स्पृशत्सु सर्वचारिषु।
प्रकाशगूढवृत्तिषु स्वधर्ममेव पालय॥ 12-329-55(78802)
अनेकपारिपान्थके विरूपरौद्रमक्षिके।
स्वमेव कर्म रक्ष्यतां स्वकर्म तत्र गच्छति॥ 12-329-56(78803)
न तत्र संविभज्यते स्वकर्मभिः परस्परम्।
तथा कृतं स्वकर्मजं तदेव भुज्यते फलम्॥ 12-329-57(78804)
यथाऽप्सरोगणाः फलं सुखं महर्षिभिः सह।
तथाऽऽप्नुवन्ति कर्मजं विमानकामगामिनः॥ 12-329-58(78805)
यथेह यत्कृतं शुभं विपाप्मभिः कृतात्मभिः।
तदाप्नुवन्ति मानवास्तथा विशुद्धयोनयः॥ 12-329-59(78806)
प्रजापतेः सलोकतां बृहस्पतेः शतक्रतोः।
व्रजन्ति ते परां गतिं गृहस्थधर्मसेतुभिः॥ 12-329-60(78807)
सहस्रशोऽप्यनेकशः प्रवक्तुमुत्सहामहे।
अबुद्धिमोहनं पुनः प्रभुस्तु तेन पावकः॥ 12-329-61(78808)
गता त्रिरष्टवर्षता ध्रुवोऽसि पञ्चविंशकः।
कुरष्व धर्मसंचयं वयो हि तेऽतिवर्तते॥ 12-329-62(78809)
पुरा करोति सोऽन्तकः प्रमादगोमुखां चमूम्।
यथागृहीतमुत्थितस्त्वरस्व धर्मपालने॥ 12-329-63(78810)
यथा त्वमेव पृष्ठतस्त्वमग्रतो गमिष्यसि।
तथा गतिं गमिष्यतः किमात्मना परेण वा॥ 12-329-64(78811)
यदेकपातिनां सतां भवत्यमुत्र गच्छताम्।
भयेषु सांपरायिकं निधत्स्व केवलं निधिम्॥ 12-329-65(78812)
सतूलमूलबान्धवं प्रभुर्हरत्यसङ्गवान्।
न सन्ति यस्य वारकाः कुरष्व धर्मसंनिधिम्॥ 12-329-66(78813)
इदं निदर्शनं मया तवेह पुत्र संमतम्।
स्वदर्शनानुपानतः प्रवर्णितं कुरुष्व तत्॥ 12-329-67(78814)
ददाति यः स्वकर्मणा धनानि यस्यकस्यचित्।
अबुद्धिमोहजैर्गुणैः स एक एव युज्यते॥ 12-329-68(78815)
शुभं समस्तमश्नुते प्रकुर्वतः शुभाः क्रियाः।
तदेतदर्थदर्शनं कृतज्ञमर्थसंहितम्॥ 12-329-69(78816)
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः।
छित्त्वैतां सुकृतो यान्ति नैनां छिदन्ति दुष्कृतः॥ 12-329-70(78817)
किं ते धनेन किं बन्धुभिस्ते
किं ते पुत्रैः पुत्रक यो मरिष्यसि।
आत्मानमन्विच्छ गुहां प्रविष्टं
पितामहास्ते क्व गताश्च सर्वे॥ 12-329-71(78818)
श्वः कार्यमद्ये कुर्वीत पूर्वाह्णे चापराह्णिकम्।
न हि प्रतीक्षते मृत्युः कृतं वाऽस्य न वाऽकृतम्॥ 12-329-72(78819)
अनुगम्य विनाशान्ते निवर्तन्ते ह बान्धवाः।
अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा॥ 12-329-73(78820)
नास्तिकान्निरनुक्रोशान्नरान्पापमते स्थितान्।
वामतः कुरु विस्रब्धं परं प्रेप्सुरतन्द्रितः॥ 12-329-74(78821)
एवमभ्याहते लोके कालेनोपनिपीडिते।
सुमहद्धैर्यमालम्ब्य धर्मं सर्वात्मना कुरु॥ 12-329-75(78822)
अथेमं दर्शनोपायं सम्यग्यो वेत्ति मानवः।
सम्यक् स्वधर्मं कृत्वेह परत्र सुखमश्नुते॥ 12-329-76(78823)
न देहभेदे मरणं विजानतां
न च प्रणाशः स्वनुपालिते पथि।
धर्मं हि यो बर्धयते स पण़्डितो
य एव धर्माच्च्यवते स दह्यते॥ 12-329-77(78824)
प्रयुक्तयोः कर्मपथि स्वकर्मणोः
फलं प्रयोक्ता लभते यथाविधि।
निहीनकर्मा निरयं प्रपद्यते
त्रिविष्टपं गच्छति धर्मपारगः॥ 12-329-78(78825)
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम्।
तथाऽऽत्मानं समादध्याद्धश्यते न पुनर्यथा॥ 12-329-79(78826)
यस्य नोत्क्रामति मतिः स्वर्गमार्गानुसारिणी।
तमाहुः पुण्यकर्माणमशोच्यं मित्रबान्धवैः॥ 12-329-80(78827)
यस्य नोपहता बुद्धिर्निश्चये ह्यवलम्बते।
स्वर्गे कृतावकाशस्य नास्ति तस्य महद्भयम्॥ 12-329-81(78828)
तपोवनेषु ये जातास्तत्रैव निधनं गताः।
तेषामल्पतरो धर्मः कामभोगानजानताम्॥ 12-329-82(78829)
यस्तु भोगान्परित्यज्य शरीरेण तपश्चरेत्।
न तेन किंचिन्न प्राप्तं तन्मे बहुमतं फलम्॥ 12-329-83(78830)
मातापितृसहस्राणि पुत्रदारशतानि च।
अनागतान्यतीतानि कस्य ते कस्य वा वयम्॥ 12-329-84(78831)
अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित्।
न तं पश्यामि यस्याहं तन्न पश्यामि यो मम॥ 12-329-85(78832)
न तेषां भवता कार्यं न कार्यं तव तैरपि।
स्वकृतैस्तानि जातानि भवांश्चैव गमिष्यति॥ 12-329-86(78833)
इह लोके हि धनिना परोऽपि स्वजनायते।
स्वजनस्तु दरिद्राणां जीवतामपि नश्यति॥ 12-329-87(78834)
संचिनोत्यशुभं कर्म कलत्रापेक्षया नरः।
ततः क्लेशमवाप्नोति परत्रेह तथैव च॥ 12-329-88(78835)
पश्यति च्छिन्नभूतं हि जीवलोकं स्वकर्मणा।
तत्कुरुष्व तथा पुत्र कृत्स्नं यत्समुदाहृतम्॥ 12-329-89(78836)
तदेतत्संप्रदृश्यैव कर्म भूमिं प्रपश्यतः।
शुभान्याचरितव्यानि परलोकमभीप्सता॥ 12-329-90(78837)
मासर्तुसंज्ञापरिवर्तकेन
सूर्याग्निना रात्रिदिवेन्धनेन।
स्वकर्मनिष्ठाफलसाक्षिकेण
भूतानि कालः पचति प्रसह्य॥ 12-329-91(78838)
धनेन किं यन्न ददाति नाश्नुते
बलेन किं येन रिपुं न बाधते।
श्रुतेन किं येन न धर्ममाचरे
त्किमात्मना यो न जितेन्द्रियो वशी॥ 12-329-92(78839)
भीष्म उवाच। 12-329-93x(6537)
इदं द्वैपायनवचो हितमुक्तं निशम्य तु।
शुको गतः परित्यज्य पितरं मोक्षदैशिकम्॥ ॥ 12-329-93(78840)

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनत्रिंशदधिकत्रिशततमोऽध्यायः॥ 329॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-329-2 स्वाध्यायमन्वशिक्षयत स्वयमिति ट. थ. ध. पाठः॥ 12-329-5 हित्वा सङ्गमनार्जवमिति प्राणस्य लेलिहेति च. ध. पाठः। संलिह स्पृश। स्वाद्वस्वादुविवेकं मा कार्षीरित्यर्थः॥ 12-329-6 आमपात्रोपमे इति ध. पाठः। स्वपिषि पुरुषार्थसाधने न प्रवर्तसे॥ 12-329-7 शत्रुषु कामादिषु। अन्तरं छिद्रम्॥ 12-329-8 न धावसि देवं गुरुं वा शरणं न यासि। जीविते लिह्यमाने चेति ध. पाठः। जीविते लुल्यमानेचेति ट. पाठः॥ 12-329-10 अपथा अपथेन। बुद्धिमोहपरायणा इति ट. थ. पाठः॥ 12-329-13 आद्यकालिकया वर्तमानमात्रदर्शिन्या॥ 12-329-15 कूलपातं महानदीपूरम्। रणरेणुमिवोत्थितमिति ध. पाठः। रथरेणुमिवेति ध.पाठः। रथरेणुं यथा वामतः कुर्वन्ति वामभागे कुर्वन्ति वर्जयन्तीत्यर्थ इति रत्नगर्भः। खररेणुमिति ट. थ. पाठः॥ 12-329-17 अमोघासु आयुर्हरणेन सफलासु रात्रिषु। धर्मपोतेन संचरेति ध. पाठः। जरया परिवारित इति ट. थ. पाठः॥ 12-329-18 मृत्युरन्वेति ते यदेति ट. थ. ध. पाठः। निवृत्तिं लम्भसे यस्मात्तस्मात्त्वं मृत्युनाशित इति ध. पाठः॥ 12-329-19 संचिन्वानकं धनादिसंचयपरम्॥ 12-329-20 अन्धकारे संसारे। दीपो ज्ञानम्॥ 12-329-22 इह क्लेशाय महते प्रेत्यानन्तसुखाय चेति ध. पाठः॥ 12-329-24 शुक्लकृष्णौ पक्षौ॥ 12-329-25 चक्षुर्ज्ञानं परप्रणेतृनेयम्। अन्धवत् यदि न भवसीत्यर्थः। परं परलोकं आत्मानं वा॥ 12-329-26 परिगतं प्राप्तं वेदनाशरीरं यमलोके यातनाशरीरं यैस्ते तथाभूता भवन्तीति शेषः॥ 12-329-28 श्नान इति नराणां कदनं यत्र तस्मिन्नरके। रुधिरपाः कीटाः। गुरूणां मातृपि तृप्रभृतीनां वचनं नुदति दूरीकरोति तं उपतरं मृतम्। श्वानोभीषिकयेति ध. पाठः॥ 12-329-29 पितृविषये यमलोके विपिनमसिपत्रवनं तदेवावगाह्य तत्रैव निवसति॥ 12-329-30 निकृतिर्नीचकर्म वञ्चनाचौर्यादि। उपनिधिभिश्छलेन। अपकीर्तिभिरशुभकृतः कृत्स्नं परमनिरययातनाभृशमसुखमनुभवति दुष्कृतकर्मेति ट. पाठः॥ 12-329-32 महापदानि ब्रह्मादीनां स्थानानि दृष्ट्वा कत्थसे धन्योऽहमिति श्लाघसे परंतु ब्रह्म नावेक्षसे। मृत्युकारिकां जराम्॥ 12-329-33 प्रयास्यतां मोक्षमार्गेण प्रस्थातव्यम्। सुखस्य प्रमाथि संविधीयतां प्रयत्यताम्॥ 12-329-34 अन्तकाय अयतिसुखाय। दारुणैः कृच्छ्रादितपोभिः॥ 12-329-42 वृकाः कामादयः॥ 12-329-43 हिरण्मयवृक्षदर्शनं मरणचिह्नम्॥ 12-329-44 ते त्वाम्॥ 12-329-45 तद्धनं विद्याम्॥ 12-329-46 यौतकं विवाहाप्तंधनं दायादाग्राह्यम्॥ 12-329-48 यावके घृतखण्डमिश्रे यवपिवष्टविकारे त्वरं त्वरायुक्तं यथा स्यात्तथा प्रलीयसे म्रियसे। भोगान्भुक्त्वा मोक्षे यत्नं करिष्यामीति न मन्तव्यमिति भावः॥ 12-329-55 यथेन्द्रियेषु सर्वतः श्रुतेष्विति ध. पाठः॥ 12-329-58 तथाऽऽप्नुवन्ति कर्मतो वियुद्धिमोहनं पुनरिति ट. ध. पाठः॥ 12-329-66 कुरुष्व धर्मसंचयमिति ध. पाठः॥ 12-329-72 नहि तद्वेद कस्याद्यमृत्युसेनाभिवीक्षते इति ध. पाठः। को हि तद्वेद यस्याद्यमृत्युसेनाभिवीक्षत इति ट. थ. पाठः॥ 12-329-79 सृज्यते न पुनर्यथेति ध. पाठः। म्रियते न पुनर्यथेति ट. पाठः॥ 12-329-83 तदेव बहुलं मतमिति ट. ध. पाठः॥ 12-329-93 हितयुक्तमिति ध. पाठः। मोक्षदैशिकं मोक्षोपदेष्टारम्॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.